________________
योगशास्त्रम्
तृतीय
प्रकाशा
॥४१८॥
पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणे आधन्तयोरपि ग्रहणमिति न्यायप्रदर्शनार्थम्, तथाहि-नित्यं विशेषतश्च पर्वणि स्नात्रपूर्वक पूजाकरणमिति स्नात्रकाले प्रथम मुगन्धिश्रीखण्डेन जिनबिम्बस्य तिलककरणम् । ततः
मीनकुरङ्गमदागुरुसारं, सारसुगन्धिनिशाकरतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥
इति वचनाध्धृपोतक्षेपणम्, ततः सर्वोषध्यादिद्रव्याणां जलपूर्णकलशे क्षेपणं, पश्चात् कुसुमाञ्जलिक्षेपपूर्वक सर्वोषधिकर्परकुङ्कमश्रीखण्डागुरुप्रभृतिभिर्जलमित्रैतदुग्धप्रभृतिभिश्च स्नात्रकरणम्, ततः सुरभिणा मलयजरसादिना विलेपनविधानम् , ततः सुगन्धिजाति-चम्पक-शतपत्र-विचकिल-कमलादिमालाभिर्भगवतोऽभ्यर्चनम्, रत्रसुवर्णमुक्ताभरणादिभिरलङ्करणम् , वस्त्रादिभिः परिधापनम् ,पुरतश्च सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिकालेखनम् , तत्पुरतश्च बलिमङ्गलदीपदधिघृतादीनां ढौकनम् , भगवतश्च भालस्थले गोरोचनया तिलककरणम् , तत आरात्रिकद्युत्तारणम् । यदाह
गन्धवरधृवसवोसहीहि उअगाइएहि चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवएहि च ॥शा सिद्धत्ययदहिअक्खयगोरोअणमाइएहिं जहलाभं । कञ्चणमोत्तिअरयणाइदामएहिं च विविहेहिं ॥२॥ पवरेहिं साहणेहि पायं भावो वि जायए पवरो। न य अन्नो उवओगो एएसि सिया ण लट्ठयरो॥३॥त्ति। (१) गन्धवरधूपसर्वोषधीभिरुदकादिकैश्चित्रैः । सुरभिविलेपनवरकुसुमदामबलिदीपकैश्च ॥१॥ सिद्धार्थक-दध्यक्षत-गोरोचनादिकर्यथालाभम् । कञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ॥२॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां स्याद् मनोहरतरः ॥३॥ इति ।
४१८॥