________________
तृतीय
योगशास्त्रम्
प्रकाला
॥४१॥
शुचिरिति मलोत्सर्गदन्तधावनजिहालेखनमुखप्रक्षालनगण्डूषकरणस्नानादिना शुचिः सनित्यनुवादपरं लोकसिद्धो ह्ययमर्थ इति नोपदेशपरम्, अप्राप्ते हि शास्त्रमर्थवत् । न हि मलिनः स्नायात्, बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसगिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् । न च सावद्यारम्भेषु शास्तृणां वाचनिक्यष्यनुमोदना युक्ता । यदाहु:१सावज्जणवजाण वयणाणं जो न जाणइ विसेस । वुत्त पि तस्स न खमं किम ! पुण देसणं काउं ॥१॥
इति शुचित्वमनूद्य पुष्पामिषस्तोत्ररित्यायपदिशति-वेश्मनि गृहे देवं मङ्गलचैत्यरूपं भगवन्तमहन्तमभ्यर्च्य पूजयित्वा, पूजाप्रकारानाह-पुष्पामिषस्तोत्रैरिति. पुष्पाणि कुसुमानि पुष्पग्रहण सर्वेषां सुगन्धिद्रव्याणां विलेपनधूपगन्धवासवस्त्राभरणादीनामुपलक्षणम् । आमिषं भक्ष्य पेयं च, तच्च पकानफलाक्षतदीपजलघृतपूर्णपात्रादिरूपं, स्तोत्रं शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपं, ततः प्रत्याख्यानं नमस्कारसहिताधद्धारूपं सङ्केतरूपं च अन्थिसहितादि कृत्वा यथाशक्तीति शक्त्यनतिक्रमेण, शक्तितस्त्यागतपसी इति सुप्रसिद्धमेव, देवगृहं भक्तिचैत्यरूपं ब्रजेद् गच्छेत् । अत्र च स्नानविलेपनवर्णकविशिष्टवस्त्राभरणालङ्कारशत्रपरिग्रहविशिष्टवाहनाधिरोहणप्रभृतीनां स्वतःसिद्धानां नोपदेशः । अप्राप्ते शास्त्रमर्थवदित्युक्तमेव । देवगृहबजनविधिः पुनरयम्-यदि राजा भवति तदा
(१) सावधानवद्यानां वचनानां यो न जानाति विशेषम् । उक्तमपि तस्य न क्षमं किमङ्ग! पुनर्देशनां कर्तुम् ॥
॥४१६॥