________________
योगशास्त्रम् ॥४१३॥
त्पश्यामः । दुष्प्रसहयक्षिणीनागिलाख्यत्रतत्रतिनीश्रावकवदपश्चिमा सत्यश्रीः । तत्कथं श्राविकाः पापवव निता निदर्शनेन दुष्यन्ते ? । तस्माद्दूरेण न परिहरणीयाः, वात्सल्यं चासां करणीयमित्यलं प्रसङ्गेन । न केवलं सप्तक्षेत्र्यां धनं वपन महाश्रावक उच्यते, किन्त्वतिदीनेष्वपि निःस्वान्धबधिरपङ्गुरोगार्त्तप्रभृतिषु कृपया केवलया धनं वपन् न तु भक्त्या । भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानम् । अतिदीनेषु त्वविचारितपात्रापात्रमविसृष्टकल्पनीयाकल्पनीयप्रकारं केवल्यैव करुणया स्वधनस्य वपनं न्याय्यम् । भगवन्तोऽपि हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति । तदेवं भक्त्या सप्तक्षेत्र्यां दीनेषु चातिदयया धनं वपन महाश्रावक उच्यते । ननु श्रावक इत्युच्यताम्, महाश्रावक इति तु महत्त्वविशेषणं किमर्थं १ उच्यते श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च श्रृणोतीति व्युत्पत्त्योच्यते; यदाह
१ सम्पत्तदंसणाई पइदियहं जइजणा सुणेई य । सामायारिं परमं जो खलु तं सावयं विन्ति ॥ १ ॥ श्रद्धालुतां श्राति पदार्थचिन्तनाद् धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवना - दद्यापि तं श्रावकमाहुरञ्जसा ॥ २ ॥
sa freearer श्रावकत्वं सामान्यस्यापि प्रसिद्धम् विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्रीलक्षणे क्षेत्रे धनवपनाद्दर्शनप्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावकशब्देनोच्यत इत्यदोषः ॥ १२० ॥ सप्तक्षेत्र्यां धनवपनं व्यतिरेकद्वारेण समर्थयते
(१) संप्राप्तदर्शनादिः प्रतिदिवस यतिजनात् शृणोति च । सामाचारी परमां यः खलु तं श्रावकं ब्रुवते |१|
तृतीय
प्रकाशः
| ॥४१३॥