________________
पोग
तृतीय
शाखम्
.
प्रकाशा
॥४१४॥
| यः सद्बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दुश्चरं स समाचरेत् ?॥१२१॥
__ सदिति विद्यमानमसतो हि धनस्य कथं दानं भवेत् ? सदपि बाह्य शरीराबहिर्भुतं आन्तरस्य तु कस्य- चिदानं न शक्यं कर्तु, बाह्यमपि यदि नित्यमाकालस्थायि भवेत् तदा न दीयेतापि, इदं त्वनित्यं चौरजलज्वलनदायादपार्थिवादिहरणीय प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति, यदस्मद्गुरवः१अत्यं चोरा विलुपंति उद्दालंति य दाइया । राया वा संवरावेइ बला मोडीइ कत्थइ ॥१॥ जलणो वा विणासेइ पाणियं वा पलावए । अवदारेण निग्गच्छे वसणोपहयस्स वा ॥ २ ॥ भूमीसंगोवियं चेव हरन्ति वन्तरा सुरा । उज्झित्ता जाइ सव्वं पि मरन्तो वा परं भवं ॥३॥
अनित्यमपि स्वधन किश्चित्क्षेप्तुं शक्यते, न हि बहुतैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम् क्षेत्रेष्विति, क्षेत्राणि येषूप्तं धनं शतसहस्त्रलक्षकोटिगुणं भवति । एवं विधायामपि सामग्र्यां यः स्वधनं न वपेत् स वराकः निःसत्त्वश्चारित्रं महासत्त्वसेवनीयमत एव दुश्चरं कथं समाचरेत् ?; धनमात्रलुब्धो निःसत्त्वः कथं सर्वसङ्गत्याग रूपं चारित्रं विदधीत ?, अनाराधितचारित्रश्च कथं सद्गति प्राप्नुयात् ? सर्वविरतिप्रतिपत्तिकलशारोपणफलो हि
(१) अर्थ चौरा विलुम्पन्ति, उद्दालयन्ति च दायादाः। राजा वा संवारयति बलात् मृद्यते कुत्रापि ॥१॥ ज्वलनो वा विनाशयति पानीयं वा प्लावयति। अपद्वारेण निर्गच्छेत् व्यसनोपहतस्य वा ॥ २ ॥ भूमीसंगोपितमेव हरन्ति व्यन्तराः सुराः । उज्झित्वा याति सर्वमपि म्रियमाणो वा परं भवम् ॥३॥
11४१४॥