________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४१२॥
करणमिति । श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तत्र ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शीलशालित्वम्?, कुतो वा रत्नत्रययुक्तत्वम् ?, स्त्रियो हि नाम लोके लोकोत्तरे चानुभवाच्च दोषभाजनत्वेन प्रसिद्धाः। एताः खल्वभूमिजा विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः. अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्यः; असत्यवचनस्य, साहसस्य, बन्धुस्नेहविघातस्य, सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत्कथं दानसंमानवात्सल्यविधानं तासु युक्तियुक्तम् ! । उच्यते-अनेकान्त एषः, यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरूषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देवगुरुवश्चकाश्च दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाश्चिद्दोषबहुलत्वमुपलभ्यते, तथापि कासांचिद् गुणबहुलत्वमप्यस्ति ।तीर्थकरादिजनन्यो हि खीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अप्याहु:निरतिशयं गरिमाणं तेन युक्त्या वदन्ति विद्वांसः । तं कमपि वहति गर्भ जगतामपि यो गुरुर्भवति ॥१॥ इति।।
काश्चन स्वशीलप्रभावादग्नि जलमिव, विषधर रज्जुमिव, सरितं स्थलमिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्के चतुर्थमङ्गं गृहमेधिखियोऽपि । सुलसाप्रभृतयो हि श्राविकामतीर्थकरैरपि प्रशस्यगुणाः सुरेन्द्ररपि स्वर्गभूमिषु पुनः पुनर्बहुमतचारित्राः प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद्वित्रि (त्र) भवान्तरितमोक्षगमनाः शास्त्रेषुः श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवो
१४१२॥