________________
योगशास्त्रम
तृतीय प्रकाशा
॥४१॥
ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमय॑ते; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? । मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवाऽन्तःकोटिकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवान्मिथ्यात्वसहितपापकर्मसम्भवत्वमकारणम्, मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् । तच्च नास्ति । यतःजानीते जिनवचनं श्रद्धत्ते चरति चाऽऽर्यिका शबलम् । नास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥१॥ इति
तत्सिद्धमेतन्मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम्, स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिच-विधापनम् , स्वपुत्रीकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च, तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तनिवारणम्, सकृदन्यायप्रवृत्तौ शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचारणं चेति । श्रावकेषु स्वधनवपनं यथा-साधर्मिकाः खलुश्रावकस्य श्रावकाः, समानधार्मिकाणां च सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? । सा च स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्टभोजनताम्बूलवस्त्राभरणादिदानम्, आपग्निमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणम्, अन्तरायदोषाच विभवक्षये पुनः पूर्वभूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्म स्थैर्यारोपणम्. प्रमाद्यतां च स्मारणवारणचोदनाप्रतिचोदनादिकरणम्, वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथादिषु यथायोग्यं विनियोजन. विशिष्टधर्मानुष्ठानकरणार्थ च साधारणपोषधशालादेः
॥४११॥