________________
तृतीय
योगशास्त्रम्
प्रकाश
1॥४१॥
धुधर्मनिन्दापराणां यादृष्टानमनुतिष्ठन्ति, तथा सानपुत्र्यादेरपि समर्पणं चन
स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थङ्करगणधरेभ्य आ चैतदिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनम् , यथा-उपकारिणां प्रासुकैषगीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां, च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां, प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थ पात्राणां, औपग्राहिकाणां च दण्डकादीनां निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्रव्यक्षेत्रकालभावापेक्षयाऽनुपकारकं नाम, तत्सर्वस्वस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च । किं बहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वयमनुष्टानमनुतिष्ठन्ति, तथा तथा महता प्रयत्नेन सम्पादनम्, जिनवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह१तम्हा सइ सामत्थे आणाभम्मि नो खलु उवेहा । अणुकूलगेयरे हि अ अणुसठ्ठी होइ दायव्वा ॥१॥
तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु वीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताभ्यो दानं साधुदानतुल्यम् ? । उच्यते-निःसत्त्वमसिद्धम्, ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वसम्भवः । यदाह
ब्राह्मी सुन्दर्यार्या राजीमती चन्दना गणधराऽन्या । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥ गार्हस्थ्येऽपि सुसत्त्वा विख्याताः शीलवतीतमा जगति । सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ? ॥२॥ संत्यज्य राजलक्ष्मी पतिपुत्रभ्रातृबन्धुसम्बन्धम् । पारिवाज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥ ३॥ (१) तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलूपेक्षा । अनुकूलकेतरे हि चानुशिष्टिर्भवति दातव्या ॥ १॥
॥४१०॥