________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४०९||
यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशनसमर्थम्, इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यतः कल्याणभाजिन एव जिनवचनं भावतो भावयन्ति । इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । यदि चेदं जिनवचनं नाभविष्यत्, तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकूपे भुवनमपतिष्यत् । यथा च हरीतकी भक्षयेद् विरेककामः इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्गनिमित्तकेवलिकाचन्द्राग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैर्दष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्चेतव्यम् । जिनवचनं च दुःषमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयम् । यदाह
न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् ।
न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ॥ १ ॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । ते सर्व वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २ ॥ जिनागमपाठकानां वस्त्रादिभिरभ्यर्चनं भक्तिपूर्व समानन च । यदाहपठति पाठयते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः॥१॥ लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थ दानम् , व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । साधूनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभ मनुष्यजन्म सफलीकुर्वतां
॥४०९॥