________________
योगशाखम्
तृतीय प्रकाशा
॥४०८॥
१परमरहस्समिसीणं समत्तगणिपिडगभरिअसाराणं । परिणामि पमाणं निच्छयमवलम्बमाणाणं ॥२॥ यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि । यदाहु:देहाइनिमित्तं पि हु जे कायवहम्मि इह पयट्टन्ति । जिणपूआकायवहम्मि तेसिमपवत्तणं मोहो ॥१॥ इत्यलं प्रसङ्गेन । जिनागमक्षेत्रे च स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्याभक्ष्यपेयापेयगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव, समुद्रे द्वीपमिव, मरौ कल्पतरुरिख, संसारे दुरापः। जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते। यदवोचाम स्तुतिषुयदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥१॥ जिनागमबहुमानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । किं च केवलज्ञानादपि जिनागम एव प्रामाण्येनाऽतिरिच्यते । यदाहुः
३ओहे सुओवउत्तो सुयनाणी जइ हु गिण्डइ असुद्ध । तं केवली वि भुञ्जइ अपमाणं सुभं भवे इहरा ॥१॥ एकमपि जिनागमवचनं भविनां भवनाशहेतुः। यदाहु:
एकमपि च जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः ॥१॥ इति ॥ (१) परमरहस्यमृषीणां समस्तगणिपिटकभृतसारणाम् । परिणामितं प्रमाणं निश्चयमवलम्बमानानाम् ॥२॥ (२) देहादिनिमित्तमपि खलु ये कायवधे इह प्रवर्तन्ते । जिनपूजाकायवधे तेषामप्रवर्तनं मोहः ॥३॥ (३) ओघे श्रुतोपयुक्तः श्रुतज्ञानी यदि खलु गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्तेऽप्रमाणं श्रुतं भवेदितरथा॥१॥
| ॥४०८॥