________________
योग शास्त्रम्
॥४०७॥
तृतीय प्रकाशा
यस्तृणमयीमपि कुटी कुर्यादद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ॥१॥ किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् । ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः॥२॥
राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारग्रामनगरमण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम्, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनविम्बपूजादिकरणमनुचितमिव प्रतिभासते षड्जीवनिकायविराधनाहेतुत्वात्तस्य, भूमीखननदलपाटकानयनग
पूरणेष्टकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्बपरिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव न च धर्मार्थ धनोपार्जन युक्तम् यतः
धर्मार्थ यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥१॥ इत्युक्तमेव । न च वापीकूपतडागादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदकमेव । षड्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहु:-- १जा जयमाणस्स भवे विराहणा मुत्तविहिसमग्गस्स । सा होइ निज्जरफला अब्भत्थविसोहिजुत्तस्स ॥१॥ (१) या यतमानस्य भवेद विराधना सूत्रविधिसमग्रस्य । सा भवति निर्जरफलाभ्यर्थनाविशोधियुक्तस्य ||१||
॥४०७॥