________________
योगशास्त्रम्
॥४०६॥
यथाहं पूजनवर्धनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्रतिमाः - भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः या इदानीमपि मनुष्यादिभिविधाप्यन्ते; मङ्गल्यकारिता या गृहेषु द्वारपत्रेषु मङ्गलाय कार्यन्ते, शाश्वत्यस्तु अकारिता एव अधस्तिर्यगूर्ध्वलोकावस्थितेषु जिनभवनेषु वर्तन्त इति । नहि लोकत्रयेऽपि तत्स्थानमस्ति यन पारमेश्वरीभिः प्रतिमाभि: पवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति । जिनभवनक्षेत्रे स्वधनवनं यथा - शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकान तिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षड्जीवनिकायरक्षायतनापूर्वकं जिनभवनस्य विधापनम् । सति विभवे भरतादिवद् रत्नशिलाभिर्वद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालङ्कारकृतस्य विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमान कर्पूरकस्तूरिका गुरुप्रभृतिधूपसमुच्छलद्धूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधाऽऽतोद्यनान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतश्निपतद्गायन्नृत्यद्वल्गत्सिंहादिनादितवत्सुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्री यितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्धारोपितविजयवैजयन्ती निबद्धकिङ्किणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरी (र) निवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृतुम्बुरुमहिनो निरन्तरतालारसरासक हल्ली सकप्रमुखप्रबन्धनानाभिनयनव्यग्र कुलाङ्गनाचमत्कारितभव्यलोकस्या - भिनीयमाननाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् असति तु विभवे तृणकुटयादिरूपस्याऽपि । यदाह —
तृतीय प्रकाशः
॥४०६ ॥