________________
तृतीय
योगशास्त्रम्
प्रकाशा
॥४०५॥
तथाहि१पासाइआ पडिमा लक्खणजुत्ता समत्तलङ्करणा । जह पल्हाएइ मणं तह निज्जरमो विआणाहि ॥१॥
तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनं, यात्राविधानं, विशिटाभरणभूषण, विचित्रवः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह
गन्धैर्माल्यैर्विनिर्यबहलपरिमलैरक्षतेधूपदीपैः, सामाज्यैः प्राज्यभेदैश्चरुभिरुपहृतैः पाकपूतैः फलैश्च । अम्भःसंम्पूर्णपात्रेरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥१॥
ननु जिनबिम्बानां पूजादिकरणे न कश्चिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति वा, न चातृप्ततष्टाभ्यो देवताभ्यः फलमाप्यते । नैवम् , चिन्तामण्यादिभ्य इवातृप्ततुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तं वीतरागस्तोत्रेऽस्माभिः
अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः॥१॥ तथा२उवगाराभावम्मि वि पुज्जाणं पूयगस्य उवगारो। मन्ताइसरणजलणादिसेवणे जह तहेहं पि ॥१॥ एष तावत् स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामपि । अकारितानां च शाश्वतप्रतिमानां (१) प्रासादिता प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रहलादयति मनस्तथा निर्जीर्यामो विजानीहि ।। । (२) उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः । मन्त्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥१॥
॥४०५॥