________________
योगशास्त्रम्
तृतीय प्रकाशा
ll૪૦ણા
ददाति, अत्र परोन्नतिवैमनस्य मात्सर्यम्, यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे-मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि । इति चतुर्थः ४। तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे-अपदेशस्तु कारणे व्याजे लक्ष्येऽपि । इति पत्रमः ५। एते पश्चातिचारास्तुर्यशिक्षाव्रते अतिथिसंविभागनाम्नि स्मृताः। अतिचारभावना पुनरियम्-यदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः; इत्यवसितानि सम्यक्त्वमूलानि द्वादश ब्रतानि, तदतिचाराश्चाभिहिताः ॥११९॥
इदानीमुक्तशेषं निर्दिशन् श्रावकस्य महाश्रावकत्वमाहएवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन । दयया चातिदीनेष महाश्रावक उच्यते॥१२०॥ ___ एवं पूर्वोक्तप्रकारेण सम्यक्त्वमूलेष्वतिचारविशुद्धेषु द्वादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलीनः सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्बभवनागमसाधुसाध्वीश्रावक श्राविकालक्षणा तस्यां, न्यायोपात्तं धनं वपन् निक्षिपन् । क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं वपश्निति, वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेच्यामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया, तथाहि-जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वज्रेन्द्रनीलाऽञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककर्केतनविद्रमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यैर्विधापनम् । यदाह
सन्मृत्तिकामलशिलातलरूप्यदारु–सौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरुपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥
॥४०४॥