________________
योगशाखम्
तृतीय प्रकाशा
॥४०॥
यत् सूत्रम्-१अप्पडिलेहिअदुप्पडिलेहिअसिज्जासंथारए, अप्पमज्जिअदुप्पमज्जिअसिज्जासंथारए, अप्पडिलेहिअदुप्पडि लेहिअउच्चारपासवणभूमीए,*अप्पमजिअदुप्पमज्जिअउच्चारपासवणभूमि (मीए)॥
इति तृतीयः३। तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४। तथा स्मृत्यनुपस्थापन तद्विषयमेवेति पञ्चमः, पोषधे सर्वतः पोषधे देशतः पोषधे तु नायं विधिः ५॥११८॥
अथातिथिसंविभागवतस्यातिचारानाहसचित्ते क्षेपणं तेन पिधानं काललङ्घनम् । मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः॥११९॥
सचित्ते सजीवे पृथ्वीजलकुम्भोपचुल्लीधान्यादौ, क्षेपणं निक्षेपो देयस्य वस्तुनः, तच्च अदानबुद्धया निक्षिपति, एतज्जानात्यसौ तुच्छबुद्धिः यत् सचित्ते निक्षिप्तं न गृहणते साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति प्रथमोऽतिचारःश तथा तेन सचितेन सूरणकन्दपत्रपुष्पफलादिना तथाविधयैव बुद्धया पिधत्ते इति द्वितीयः । तथा कालस्य साधनामुचितभिक्षासमयस्य लङ्घनमतिक्रमः, अयमर्थः-उचितो यो भिक्षाकालः साधनां लङ्घयित्वा, अनागतं वा भुकते पोषधव्रती । इति तृतीयः३। तथा मत्सरः कोपः यथा मागितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तम् . किमहं ततोऽपि हीन इति मात्सर्या(१) अप्रतिलेखितदुष्प्रतिलेखितशय्यासंस्तारके, अप्रमार्जितदुष्प्रमाजितशय्यासंस्तारके, अप्रतिलेखितदुष्प्रतिलेखितोच्चा रप्रसवणभूमौ, अप्रमार्जितदुष्प्रमाणितोचारप्रस्रवणभूमौ । * 'भूमीओ इत्यपि पाठः'
॥४०॥