________________
योगशास्त्रम्
तृतीय प्रकाशा
॥४०२॥
वा, अन्त्यत्रयं तु मायावितया अतिचारतां याति । अत्र दिग्रव्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशावकाशिकवतमिति वृद्धाः । अतिचाराश्च दिग्वतकरणस्येव श्रृयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत्कथं व्रतान्तरसंक्षेपकरण देशावकाशिकव्रतम् ? अत्रोच्यते-प्राणातिपातादिविरमणव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः दिगव्रतसंक्षपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य, प्रेष्यप्रयोगादयोऽतिचाराः । भिन्नातिचारसम्भवाच्च दिग्रव्रतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तमिति ॥ ११७ ॥
अथ पोषधव्रतस्यातिचारानाह| उत्सर्गादानसंस्ताराननवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥११८॥ ___ उत्सर्जनमुत्सर्गस्त्याग उच्चारप्रखवणखेलसिंघाणकादीनामवेक्ष्य प्रमृज्य च स्थण्डिलादौ उत्सर्गः कार्यः । | अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्ग करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १ । आदानं ग्रहणं यष्टिपीठफलकादीनाम्, तदप्य वेक्ष्य प्रमृज्य च कार्यम्, अनवेक्षितस्याप्रमार्जितस्य चादानमतिचारः । आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्टयादीनाम्, तेन सोऽप्यवेक्ष्य प्रमाय च कार्यः अनवेक्ष्याप्रमृज्य च निक्षेपोऽतिचार इति द्वितीयः २ । तथा संस्तीर्यते यः प्रतिपन्नपोषधनतेन दर्भकुशकम्बलिवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमाय॑ च कर्तव्यः अनवेक्ष्याप्रमाय॑ च करणेऽतिचारः। इह चानवेक्षणेन दुरवेक्षणम्, अप्रमार्जनेन दुष्प्रमार्जन संगृह्यते, नत्रः कुत्सार्थ स्याऽपि दर्शनात, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः ।
૧ર૦રા