________________
योगशास्त्रम् ॥४०१ ॥
विवक्षितक्षेत्राद्बहिष्प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति प्रेष्यप्रयोगः । देशावका शिकव्रतं हि मा भूद् गमनागमनादिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य पुनरनिपुणत्वादीर्य्यासमित्यभावे दोष इति प्रथमोऽतिचारः १ । आनयनं विवक्षितक्षेत्राद् वहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणं सामर्थ्यात् प्रेष्येण; स्वयं गमने हि व्रतभङ्गः स्यात् परेण तु आनयने न व्रतभङ्गः स्यादिति बुद्धया प्रेष्येण यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः २ । तथा पुद्गलाः परमाणवस्तत्संघातसमुद्भवा बादरपरिणाम प्राप्ता लोष्टेटकाः काष्ठशलाकादयोऽपि पुद्गलास्तेषां क्षेपणं प्रेरणम् । विशिष्टदेशावग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदालोष्टादीन् परेषां बोधनाय क्षिपति, तदा लोष्टादिपातसमनन्तरमेव ते तत्समीपमनुधावन्तिः ततश्च तान् व्यापारयतः स्वयमनुपमर्दकस्यातिचारो भवतीति तृतीयः ३ । शब्दरूपानुपातो चेति शब्दानुपातो रूपानुपातश्च । तत्र स्वगृहवृत्ति (ति) प्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने स्वयमगमनाद् वृत्ति (ति) प्राकारप्रत्यासन्नवर्ती भूत्वा अभ्युत्का सितादिशब्दं करोति, आह्रानीयानां श्रोत्रेऽनुपातयति, ते च तच्छन्दश्रवणा तत्समीपमागच्छन्ति इति शब्दानुपातोऽतिचारः । तथा रूपं स्वशरीरसम्बन्धि उत्पन्न प्रयोजनः शब्दमनुच्चारयन् आहानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातः । इयमत्र भावना-विवक्षितक्षेत्राद्बहिः स्थितं कञ्चन नरं व्रतभङ्गभयादाहातुमशक्नुवन् यदा स्वकीयशब्दश्रावण रूपदर्शनव्याजेन तमाकारयति, तदा व्रतसापेक्षत्वाच्छब्दानुपातरूपानुपातावतिचाराविति चतुर्थपञ्चमौ ४ । ५ । इह चाद्यातिचारद्वयमव्युत्पन्नबुद्धितया सहसाकारादिना
तृतीय प्रकाशः
॥ ४०२ ॥