________________
योगशास्त्रम्
४००ll
न सामायिकस्यात्यन्ताभावः, सर्वविरतिसामायिकेऽपि च तथाऽभ्युपगतम्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चितमुक्तम् । किञ्च सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवति । यदाहुर्बाह्या अपि - अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपातमात्रेणोदविन्दुरपि ग्रावणि निम्नतामादधाति । न चाविधिकृताद् वरमकृतमिति युक्तम्, असूयावचनत्वादस्य । यदाहुः
१ अविहिकया वरमक असूयवयणं भणन्ति समयन्नू । पायच्छित जम्हा अकए गुरुअ कए लहुअ ॥ १ ॥ केचित्तु पोषधशालायां सामायिकमेकेनैव कार्य्यं न बहुभिः, 'एगे अबीए' इति वचनप्रामाण्यादित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात् । व्यवहारभाष्येऽप्युक्तम् – “२ राजसुयाई पश्च वि पोसहसालाइ संमिfिor " । इत्यले प्रसङ्गेन ॥ ११६ ॥
एते पञ्श्चातिचाराः सामायिकत्रते उक्ताः, इदानीं देशावका शिकवतातिचारानाहप्रेष्यप्रयोगानयने पुगलक्षेपणं तथा । शब्दरूपाऽनुपातौ च व्रते देशावकाशिके ॥ ११७ ॥
दिनविशेष एव देशावका शिकव्रतम्, इयांस्तु विशेषः - दिगवतं यावज्जीवं संवत्सरचतुर्मासीपरिमाणं वा, देशावका शिकं तु दिवसप्रहरमुहूर्तादिपरिमाणम् । तस्य च पश्चातिचाराः । तद्यथा-- प्रेष्यस्याऽऽदेश्यस्य प्रयोगो (१) अविधिकृताद् वरमकृतमसूयावचनं भणन्ति समयज्ञाः । प्रायश्चित्तं यस्मादकृते गुरुकं कृते लघुकम् ॥ १ ॥ (२) राजसुतादयः पञ्चाऽपि पोषधशालायां संमिलिताः ।
तृतीय
प्रकाशः
॥४००॥