________________
योग
शास्त्रम्
॥ ३९९ ॥
करणानन्तरमेव पारणं च । यदाहुः -
१काऊण तक्खणं चिr पारेइ करेइ वा जहिच्छाए । अणवद्वियसामाइये अणायराओ न तं सुद्धं ॥ १ ॥ इति चतुर्थः ॥ ४ ॥ स्मृती स्मरणे सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थापनं सामायिकं मया कर्तव्यं न कर्तव्यमिति वा, सामायिकं मया कृतं न कृतमिति वा, प्रबलप्रमादाद्यदा न स्मरति तदा अतिचारः, स्मृतिमूलत्वान्मोक्षसाधनाऽनुष्ठानस्य । यदाहु:
न सरइ पमायजुतो जो सामाइयं कया य कायव्वं । कयमकर्यं वा तस्स हु कयं पि विहलं तय नेयं ॥ १ ॥ ननु काय दुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावे स भवेत् ?, अतो भङ्गा एवैते नातिचारा इति चेत् उच्यतेअनाभोगतोऽतिचारत्वम् । ननु द्विविधं त्रिविधेन सावद्यप्रत्याख्यानं सामायिकं तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव तद्भङ्गजनितं च प्रायश्चित्तं विधेयं स्यात् मनोदुष्प्रणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वादतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी । यदाहु: - " अविधिकृताद्वरमकृतमिति" । नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन सावद्यं न करोमि न कारयामीति पर प्रत्याख्यानानि इत्येकतरप्रत्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्व (१) कृत्वा तत्क्षणमेव पारयति करोति वा यथेच्छम् । अनवस्थितसामायिकमनादराद् न तत् शुद्धम् ॥ १ ॥ (२) न स्मरति प्रमादयुक्तो यः सामायिकं कदा च कर्तव्यम् । कृतमकृतं वा तस्य खलु कृतमपि विफलं तस्य ज्ञेयम् ॥ १ ॥
FERO OKO ORESEE MORE TO CREATE ENO FOR
तृतीय
प्रकाशः
||३९९||