________________
योगशास्त्रम्
तृतीय
प्रकाशा
॥३९८॥
प्रमादाचरितस्यातिचारा, इत्यवसिता गुणव्रतातिचाराः ॥ ११५ ॥
अथ शिक्षाव्रतातिचारावसरः । तत्रापि सामायिकस्य तावदतिचारानाहकायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृतोः सामायिकवते ॥ ११६ ॥
कायस्य वाचो मनसश्च प्रणिहितिः प्रणिधानम् , दुष्टं च तत्प्रणिधानं दुष्टप्रणिधानं सावधे प्रवर्तनं कायदुप्रणिधानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानं चेत्यर्थः । तत्र शरीरावयवानां पाणिपादादीनामनिभृतताऽवस्थापनं कायदुष्प्रणिधानम् वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानम् क्रोधलोभद्रोहाऽभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानम् ; एते त्रयोऽतिचाराः । यदाहु:
अनिरिक्खियापमज्जियथण्डिल्ले ठाणमाइ सेवंतो। हिंसाभावे वि न सो कडसामाइओ पमायाउ ॥ १॥ कडसामाइउ पुचि बुद्धीए पेहिऊण भासिज्जा । सइ निरवज्ज वयणं अन्नह सामाइयं न हवे ॥ २ ॥ सामाइयं तु काउं घरचिन्तं जो उ चिन्तए सट्टो । अट्टवसट्टोवगओ निरत्ययं तस्स सामाइयं ॥ ३ ॥ तथाऽनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथञ्चिद्वा करणम्, प्रबलप्रमादादिदोषात् (१) अनिरीक्षिताऽप्रमार्जितस्थण्डिले स्थानादि सेवमानः । हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ॥१॥ कृतसामायिकः पूर्व बुद्धया प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ २ ॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयेत् श्राद्धः। आर्तवशातोपगतो निरर्थकं तस्य सामायिकम् ॥३॥
३९८