________________
योगशास्त्रम्
तृतीय प्रकाशः
॥३९७॥
तथा सति हि यः कश्चित् संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधयितुं शक्यते । एतच्च हिंसप्रदानरूपस्यानर्थदण्डस्यातिचारः १ । तथा उपभोगस्योपलक्षणत्वाद्भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेकः सा उपभोगातिरिक्तता । अयं प्रमादाचरितस्याऽतिचारः। इह च स्नानपानभोजनचन्दनकुङ्कुमकस्तुरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः । अत्राऽपि वृद्धसम्प्रदायः- अतिरिक्तानि बहूनि तैलामलकानि यदि गृहणाति, तदा तल्लौल्येन बहवः स्नानार्थ तडागादौ ब्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात्न
कल्पते. ततः को विधिः? तत्र स्नानेच्छुना तावद्गृह एव स्नातव्यम् तद्भावे तु तैलामलकैगृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति । तथा येषु पुष्पादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति द्वितीयोऽतिचारः २ । तथा मुखमस्यास्तीति मुखरोऽनालोचि तभाषी वाचाटः तस्य भावो मौखऱ्या घाष्टर्थप्रायमसभ्यासम्बद्धबहुपलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवादिति तृतीयः ३। तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भ्रनयनौष्ठनासाकरचरणमुखविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम् अनेकप्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः कुकुचः संकोचादिक्रियाभाक तद्भावः कौकुच्यम्, अत्र च येन परो हसति, आत्मनश्च लाघवं भवति, न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातिचार इति चतुर्थः ४ । तथा कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोरेको भवतीति पञ्चमः ५। एतौ द्वावपि
॥३९
॥