________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३९६॥
त्पर्य्यात् यथा वनेचरा एवमेवाग्नि ज्वालयन्ति, पुण्यबुद्धया वां यथा मे दवा देया मरणकाले इयन्तो मम श्रेयोऽर्य धर्मदीपोत्सवाः, करणीया इति, अथवा तृणदाहे सति नवतृणाङ्कुरोद्रेदाद् गावश्चरन्तीति क्षेत्रे वा सस्यसम्पत्तिवृ
येऽग्निज्वालनम् । अत्र जीवकोटीनां वधः स्यात् । सरसः शोषः सर शोषः सरोग्रहणमुपलक्षणं जलाशयान्तराणाम् । तदेवाह-सरः सिन्धुहृदादिभ्यो योऽम्बुनो जलस्य संप्लवः सारणीकर्षणं धान्यवपनार्थ, आदिशब्दात् तडागादिपरिग्रहः तत्राऽखातं सरः खातं तडागम् । सर शोषे च जलस्य तद्गतानां त्रसानां तत्प्लावितानां च षण्णां जीवनिकायानां वध इति सरःशोषदोषः। इत्युक्तानि पञ्चदशकर्मादानानि, दिङ्मात्रं चेदम् , एवं जातीयानां बहूनां सावद्यकर्मणां न पुनः परिगणनमिति । इह चैवं विंशतिसंख्याऽतिचाराभिधानमन्यत्राऽपि पश्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वत्रतेध्वतिचारा दृश्याः । नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः?, खरकर्मरूपा एव घेते । सत्यम्, खरकर्मरूपा एवैते, किन्त्वनाभोगादिना क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गा एवेति ॥११४॥
अथानर्थदण्डविरतिव्रतस्याऽतिचारानाहसंयुक्ताधिकरणत्वमुपभोगातिरिक्तता। मौखर्य्यमथ कौत्कुच्यं कन्दोऽनर्थदण्डगाः॥११५॥ ___ अनर्थदण्डगा इत्यनर्थदण्डविरतिव्रतगामिन एते पञ्चातिचाराः। तद्यथा-अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणमुखलादिसंयुक्तम्, उदुखलेन मुशलं, हलेन फालः, शकटेन युगं, धनुषा शरा, एवमेकमधिकरणमधिकरणान्तरेण संयुक्तं संयुक्ताधिकरणं तस्य भावस्तत्त्वम् । इह च श्रावकेण संयुक्तमधिकरण न धारणीयम् ।
॥३९६॥