________________
योगशाखम्
तृतीय प्रकाशा
॥३९५॥
लौकिका अपि ह्याचक्षते-दशमनासमं चक्रमिति ॥ १११ ॥
अथ निर्लाग्छनकर्माहनासावेधोऽङ्कनं मुष्कच्छेदनं पृष्टगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥११२॥
नितरां लान्छनमगावयवच्छेदः; तेन कर्म जीविका निर्लान्छनकर्म । तद्भेदानाह-नासावेधो गोमहिषादीनाम्, अङ्कनं गवाश्वादीनां चिह्नकरण, मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवाश्वादीनामेव, पृष्ठगालनं करभाणां, गवां च कर्णकम्बलविच्छेदः । एषु जन्तुबाधा व्यक्तैव ॥ ११२ ॥
अथासतीपोषणमाह| सारिकाशुकमार्जारस्वकुर्कुटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥११३॥ ___ असत्यो दुःशीलास्तासां पोषणं, लिंगमतन्त्रम्, शुकादीनाम् पुंसामपि पोषणमसतीपोषण ,सारिका व्यक्तवाक् पक्षिविशेष :, शुकः कीरः, मार्जारो बिडालः, श्वा कुक्कुरः, कुकुंटस्ताम्रचूडः, कलापी मयूरः, एतेषां तिरश्चां पोषः पोषणं, दास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः। एषां च दुःशीलानां पोषणं पापहेतुरेव ॥११३॥
अथ दवदानसर शोषावेकेन श्लोकेनाहव्यसनातू पुण्यबुद्धया वा दवदानं भवेद् द्विधा। सरःशोषः सरःसिन्धुहृदादेरम्बुसंप्लवः ॥११४॥
दवस्य दवाग्नेः तृणादिहननिमित्तं दानं वितरणं दवदानं, तच्च द्विधा संभवति-व्यसनात् फलनिरपेक्षता
॥३९५॥
SED