________________
योग
शास्त्रम्
॥ ३९४ ॥
नवनीतं दधिसारं, वसा मेदः, क्षौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम् द्विपदां मनुष्यादीनां चतुष्पदां गवाश्वादीनां विक्रयः केशवाणिज्यम्, सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः । रसकेशयोरिति यथासंख्येन योगः । दोषास्तु नवनीते जन्तुसमूर्च्छनं वासाक्षौद्रयोर्जन्तुघातोद्भवत्वं, मद्यस्य मदनजननं तद्गतकृमिविघातश्चेति द्विपाञ्चतुष्पाद्विक्रये तु तेषां पारवश्यं वधबन्धादयः क्षुत्पिपासापीडा चेति ॥ १०९ ॥
अथ विषवाणिज्यमाह -
विषास्त्रहलयन्त्रायोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥११०॥ विषं श्रृङ्गिकादि तच्चोपलक्षणं जीवघातहेतुनामखादीनाम् । तान्येवाह — अस्त्रं खङ्गादि, हलं लागलं, यन्त्र मरघट्टादि, अयः कुशीकुद्दालादिरूपं, हरितालं वर्णकविशेषः । आदिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्यं विषादेर्विशेषणं-जीवितघ्नस्य, अमीषां जीवितघ्नत्वं प्रसिद्धमेव ॥ ११०॥ अथ यन्त्रपीडाकर्माह -
तिलेक्षुसर्षपै रण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ १११ ॥
यन्त्रशब्दः प्रत्येकमभिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम्, इक्षुयन्त्र कोइलुकादि, सर्पपैरण्डयन्त्र तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते तैलं च प्रतिगृह्यते तद्दलतैलं तस्य कृति विधानमिति, यन्त्रपीडा यन्त्रपीडनं यन्त्रपीडाकर्मणश्च पीडनीयतिलादिक्षोदात्तद्गतत्र सजीववधाच्च सदोषत्वम् ।
तृतीय प्रकाशः
||३९४॥