SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीय प्रकाशा ॥३९३॥ धूकादीनां, अस्थीनि शङ्खादीनां, त्वक् चित्रकादीनां, रोमाणि हंसादीनां, तेषां ग्रहणं मूल्यादिना स्वीकारः; रोम्ण इत्येकवचनं प्राण्यङ्गत्वात् । आकरे तदुत्पत्तिस्थाने, सागस्य त्रसजीवावयवस्य, वाणिज्यार्थ वाणिज्यनिमित्त, आकरे हि दन्तादिग्रहणाथं पुलिन्द्रानां यदा द्रव्यं ददाति तदा तत्प्रति(वि)क्रयार्थ इस्त्यादिवधं ते कुर्वन्ति, आकरग्रहं चानाकरे दन्तादेग्रहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०७ ॥ अथ लाक्षावाणिज्यमाह लाक्षामनःशिलानीलीधातकीटकणादिनः। विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥१०॥ लाक्षा जतु अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावधानां मनःशिलादीनाम् । तान्येवाह-मनःशिला कुनटी, नीली गुलिका, धातकी वृक्षविशेषः तस्याः त्वक् पुष्पं च मद्यसन्धानहेतुर्धातकी टङ्कणः क्षारविशेषः, आदिशब्दात् संकूटादयो गृह्यन्ते, तेषां विक्रयः । स च पापसदनं टङ्कणमनःशिलयो ह्यजीवघातकत्वेन, नील्या जन्तुधाताविनाभावेन, धातक्या मद्यहेतुत्वेन तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वं ततस्तद्विक्रयस्याऽपि पापसदनत्वम् । तदेतद् लाक्षावाणिज्यमुच्यते ॥१०८॥ अथ रसकेशवाणिज्ये एकेनैव श्लोकेनाहनवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः। द्विपाचतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ॥१०९॥ |॥३९३॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy