________________
धोम
तृतीय प्रकाशा
शास्त्रम्
॥३९
॥
दजननी गवादीनां च वधवन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥१०४॥
अथ भाटकजीविकामाहशकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद्धाटकजीविका ॥१०५॥
शकटशब्द उक्तार्थः उक्षाणो बलीवर्दाः लुलाया महिषाः उष्ट्राः करभाः खरा रासभा, अश्वतरा वेसराः, वाजिनोऽश्वाः एतेषां भाटकनिमित्तं यद्भारवाहनं, तस्माद् या वृत्तिः सा भाटकजीविका ॥१०५।।
अथ स्फोटजीविकामाहसरःकपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥१६॥
सरसः कूपस्य आदिग्रहणाद वापोदीर्घिकादेः खननमोड्डुकर्म, हलादिना वा क्षेत्रादे विदारणं, शिलाकुट्टनकर्म पाषाणघटनकर्मः एतैः पृथिव्याः पृथिवीकायस्य य आरम्भ उपमर्दस्तस्य सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः, उपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका, स्फोट पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥१०६॥
अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥१०७॥ दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह-केशाश्चमर्यादीनां, नखा
॥२२॥