________________
योगशास्त्रम् ॥३९१ ॥
एवं च ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति; प्रपश्चाथं तु भेद उक्तः । भ्राष्ट्रकरणं, भ्रष्ट्र जीवित्यर्थः । तथा कुम्भकारिता कुम्भकरणपाचनविक्रयनिमित्ता जीविका । तथा अयो लोहं तस्य करणघटनादिना जीविका । स्वर्णकारिता सुवर्णरूप्ययोर्गालनघटनादिना जीविका । कुम्भायः स्वर्णानि करोतीत्येवं शीलस्तस्य भावस्तत्ता । तथा ठठारत्वं शुल्वनागबङ्गकांस्यपित्तलादीनां करणघटनादिना जीविका, इष्टकापाकः इष्टकापाकवेलुकादीनां पाकस्तेन जीविका । इत्येवंप्रकारा अङ्गारजीविका ॥ १०२ ॥
अथ वनजीविकामाह -
छिन्नाच्छिन्नवनपत्र प्रसूनफलविक्रयः । कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ १०३ ॥
छिन्नस्य द्विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिन्नाच्छिन्नानां विक्रयो वनजीविकेत्युत्तरेण सम्बन्धः । कणानां च घरट्टादिना दलनाद् द्वैधीकरणात्, शिलाशिलापुत्रकादिना पेषात् चूर्णीकरणाद्या वृत्तिः सा वनजीविका । वनजीविका च वनस्पतिकायादिघातसम्भवा ॥ १०३ ॥
अथ शकटजीविकामाह
शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०४ ॥ शकटानां चतुष्पदवाह्यानां वाहनानां तदङ्गानां शकटाङ्गानां चक्रादीनां घटनं स्वयं परेण वा निष्पादनं, खेटनं वाहनं, तच्च शकटानामेव सम्भवति स्वयं परेण वा विक्रयश्च शकटानां तदङ्गानां च, इति सकलभूतोपम
तृतीय
प्रकाश
॥३९२॥