________________
योगशास्त्रम्
||३९०॥
व्याख्यानान्तरं - भोगोपभोगसाधनं यद्द्द्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्य्योपचारात् । ततश्च कर्मतः कर्माश्रित्य खरं कठोरं प्राणिबाधकं यत्कर्म कोट्टपालनगुप्तिपालनवीतपालनादिरूपं तत्याज्यं, तस्मिन् खरकर्मत्यागलक्षणे भोगोपभोगव्रते, पञ्चदश मलानतिचारान् संत्यजेत् । ते च कर्मादानशब्देनोच्यन्तेः कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥ ९९ ॥
तानेव नामतः श्लोकद्वयेन दर्शयतिअङ्गारवनशकटभाटकस्फोटजीविका । दन्तलाक्षारसकेश विषवाणिज्यकानि च ॥१००॥ यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०१ ॥ जीविकाशब्दः प्रत्येकं सम्बध्यते । अङ्गारजीविका १ वनजीविका २ शकटजीविका ३ भाटकजीविका ४ स्फोटजीविका ५ । उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकमभिसम्बध्यते । दन्तवाणिज्यं ६ लाक्षावाणिज्यं ७ रसवाणिज्यं ८ केशवाणिज्यं ९ विषवाणिज्यं १० यन्त्रपीडा ११ निर्लाञ्छनं १२ असतीपोषणं १३ दवदानं १४ सरः शोषः १५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ १०० ॥ १०१ ॥
क्रमेण पञ्चदशाप्यतिचारान् व्याचष्टे तत्राङ्गारजीविकामाहअङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता । ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥१०२॥ अङ्गारकरणे काष्ठदाहेनाङ्गारनिष्पादनं तद्विक्रयश्थ, अङ्गारकरणे हि षण्णां जीवनिकायानां विराधनासम्भवः ।
XOXO ante
तृतीय
प्रकाशः
॥३९०॥