________________
योग शास्त्रम्
॥३८९॥
तृतीय प्रकाशा
सचित्तप्रतिबद्धाहारो द्वितीयः २। तथा सचितेन मिश्रः शबल: आहारः सन्मिश्राहारः। यथा-आर्द्रकदाडिमबीजकुलिकाचिर्भटिकादिमिश्रः पूरणादिः, तिलमिश्रो यवधानादि, अयमप्यनाभोगातिक्रमादिनाऽतिचारः । अथवा सम्भवत्सचित्तावयवस्यापककणिक्कादेः पिष्टत्वादिना अचेतनमिति बुद्धया आहारः सन्मिश्राहारः व्रतसापेक्षवादतिचार इति तृतीयः ३ । अभिषवोऽनेकद्रव्यसंधाननिष्पन्नः सुरासौवीरकादिः, मांसप्रकारखण्डादिसुरामध्वाधभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतिचार इति चतुर्थः ४। तथा दुष्पको मन्दपकः स चासावाहारश्च दुष्पकाहारः, स चार्धस्विन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डककर्कटकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्ति पृथुकादेदुष्पक्वतया सम्भवत्सचेतनावयवत्वात् पक्वत्वेनाचेतन इति भुञ्जानस्याऽतिचार इति पञ्चमः ५ । केचित् त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति अपक्वं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति । तुच्छौषधिभक्षमपि केचिदति चारमाहुः । तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथ अग्निपाकादिना अचित्तास्तर्हि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः एते पश्चातिचारा भोगोपभोगपरिमाणगता बोद्धव्याः ॥ ९८॥ ___ अथ भोगोपभोगातिचारानुपसंहरन भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाह| अमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत्।९९।।
अमी उक्तस्वरूपाः पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः । भोगोपभोगमानस्य च
॥३८९॥