________________
योग
शास्त्रभू
॥३८८ ।।
FOOTOS 44
स्य तु तथाविधप्रत्याख्यानाऽभावात् परेण नयनानयनयोर्न दोषः २|३|४| तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतः वृद्धिर्वधेनं पश्चिमादिक्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिरिति पञ्चमोऽतिचारः। तथाहि — केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्य अन्यस्यां दिशि तु दशोत्तरयोजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति । यदि वाऽनाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं, स्वयं वा विस्मृतितो गतेन लब्धं तद् परिहर्तव्यम् ॥९७॥ अथ द्वितीयगुणत्रतस्य भोगोपभोगमानरूपस्यातिचारानाह—
सचित्तस्तेन सम्बद्धः सन्मिश्रोऽभिषवस्तथा । दुष्पक्कोहार इत्येते भोगोपभोगमानगाः ॥ ९८ ॥
सह चित्तेन चेतनया वर्तते यः स सचित्त आहार एव, आहारस्तु दुष्पकाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु कन्दमूलफलादिः पृथ्वीकायादिर्वा । इह च निवृत्तिविषयी कृतप्रवृत्तौ भङ्गसद्भावेऽप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादिना प्रवृत्तौ द्रष्टव्यम् १ | तेन सचितेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिना सम्बद्धो गुन्दादिः पकफलादिर्वा, सचित्तान्तर्बीजः खर्जूराम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्धया पक्वं खजूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य
तृतीय
प्रकाशः
॥३८८||