________________
योगशास्त्रम्
तृतीय
॥३८७॥
ऽपि पञ्चभिरपि प्रकारैः, प्रतिपन्नव्रतस्य श्रावकस्य न युज्यते, कर्तुमिति शेषः, व्रतमालिन्यहेतुत्वात् । पञ्चधेत्युपलक्षणमन्येषां सहसाकारानाभोगादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पश्चातिचाराः ॥५॥९६॥
अथ गुणवतानामवसरः, तत्रापि प्रथमगुणवतस्य दिग्विरतिलक्षणस्याऽतिचारानाहस्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥९७॥
दिग्विरतिव्रते पश्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचाय्यः। तद्यथा-स्मृतेर्योजमशतादिरूपदिकपरिमाणविषयाया अतिव्याकुलत्वप्रमादित्वमत्यपाटवादिनाऽन्तर्धानं भ्रंशः। तथाहि-कैनचित् पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पश्चाशत् ? तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचारः शतमतिकामतो भङ्गः, सापेक्षत्वानिरपेक्षत्वाच्चेति । तस्मात् स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमोऽतिचारः १। तथा ऊवं पर्वततरूशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः प्रदेशः तस्य व्यतिक्रमः एत त्रयोऽतिचाराः । यत्सूत्रम्-“१उढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे" इति ।। एते च अना भोगातिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्गा एव । यस्तु न करोमि न कारयामीति वा नियम करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्य
(१) ऊर्ध्वदिकप्रमाणातिक्रमोऽधोदिक्प्रमाणातिक्रमस्तिर्यदिक्प्रमाणातिक्रमः ॥
३८॥