________________
योग
शास्त्रम्
॥३८६॥
एवातिचारो भवति बन्धनादयश्च यथासंख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते । तत्र धनधान्यस्य बन्धनात् संख्याऽतिक्रमो यथा - कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं वा ददाति, तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनात् यन्त्रणात्, रज्ज्वादिसंयमनात्, सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्गृह एव तत् स्थापयतोऽतिचारः ९ । कुप्यस्य भावतः संख्या - तिक्रमो यथा - कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयाद् भावतो द्वयोर्द्वयोर्मीलनेन एकीकरणरूपात् पर्यायान्तरात् स्वाभाविकसंख्याबाधनात् संख्यामात्र पूरणाच्चातिचारः । अथवा भावतोऽभिप्रायादर्थित्वलक्षणाद्विवक्षितकालावधेः परतो ग्रहीष्यामि अतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २ । तथा गोमहिषीवडवादेर्विवक्षित संवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावादु व्रतभङ्गः स्यादिति तद्भयात् कियत्यपि काले गते गर्भतो गर्भग्रहणाद्गर्भस्थ गवादिभावेन बहिस्तदभावेन कथञ्चिद्व्रतभङ्गङ्गाद् व्रतिनोऽतिचारः ३ । तथा क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमीलनाद्गहीतसंख्याया अतिक्रमोऽतिचारः । तथाहि किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रवास्तुप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृत्ति ( ति ) भित्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचारः ४ । तथा हिरण्यहेम्नोर्दानाद्वितरणाद् गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना, तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धं तदन्यस्मै व्रतभङ्गभयाद् ददाति पूर्णेऽवध ग्रहीष्यामीत्यभिप्रायेणेति व्रतसापेक्षत्वादतिचारः । एष गृहीतसंख्याऽतिकमः, पञ्चधा
तृतीय
प्रकाशः
॥३८६॥