________________
तृतीय
प्रकाश
योगशास्त्रम् ॥३८५॥
किश्च कलायकुलत्यौ सणसप्तदशानि धान्यानि ।"
धनं च धान्यं च धनधान्यं तस्य धनधान्यस्य । अत्रोत्तरत्र च समाहारनिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः । तथा सति ह्यतिचारपञ्चकं सुयोजं भवति । कुप्यं रूप्यमुवणव्यतिरिक्तं कांस्यलोहताम्रसीसकत्रपुमृद्भाण्डत्वचिसारविकारोदङ्किकाष्ठमञ्चकमश्चिकामसूरकरयशकटहलप्रभृति द्रव्यं. तस्य कुप्यस्य । गौरनइवाननड्वाही च, स आदिर्यस्य द्विपदचतुष्पदवर्गस्य स गवादिः । आदिशब्दान्महिषमेषाऽविककरभरासभतुरगहस्त्यादिचतुष्पदानां हंसमयूरकुकुटशुकसारिकापारापतचकोरादिपक्षिद्विपदानां पत्नीउपरुद्धादासीदासकर्मकरपदात्यादिमनुष्याणां च संग्रहः । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं, सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्यसस्यम्; उभयमुभयजलनिष्पाद्यसस्यम् । वास्तु गृहादि ग्रामनगरादि च । तत्र गृहादि त्रिविधं खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि गृहादिसन्निवेशः । क्षेत्रं च वास्तु चेति समाहारद्वन्द्वः। तथा हिरण्यं रजतं, घटितं अघटितं चाऽनेकप्रकारं पात्र्यादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्यत्राऽपि समाहारः । संख्या व्रतकाले यावज्जीव चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या अतिक्रम उल्लहुन संख्यातिक्रमोऽतिचारः ॥ ९५॥
ननु प्रतिपन्नव्रतसंख्याऽतिक्रमो भग एवं स्यात्, कथमतिचारः? इत्याहबन्धनाद्भावतो गर्भाधोजनाद् दानतस्तथा । प्रतिपन्नव्रतस्यैष पञ्चधाऽपि न युज्यते॥१६॥ न साक्षात् संख्याऽतिक्रमः, किन्तु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्धया व्रतभङ्गमकुर्वत
॥३८५॥