________________
बोगशाखम्
तृतीय प्रकाशा
॥३८४॥
परदारवर्जिनः सोऽप्यतिचारः, तत्कल्पनयाऽपरस्य भर्तुरभावेनापरदारत्वादमङ्गः, लोके च परदारतया रूढेङ्ग इति पूर्ववदतिचारः । शेषास्तु त्रयो द्वयोरपि भवेयुः; स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोन भेदः, स्वपुरुषव्य तिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति पश्च वा । कथम् ? आधस्तावद्यदा स्वकीयपतिर्वारकदिने सपत्न्या परिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभु आनाया अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ९४ ।।
अथ पश्चमव्रतस्याऽतिचारानाहधनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्च संख्याऽतिक्रमोऽत्र परिग्रहे । ९५। __ अत्र श्रावकधर्मोचिते परिग्रहवते यः संख्याऽतिक्रमः सोऽतिचारः कस्य कस्येत्याह-धनं गणिमधरिममेयपरीक्ष्यलक्षणम् । यदा-ह
गणिमं जाईफलकोप्फलाइ धरिमं तु कुङ्कमगुडाइ। मेज चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्जं ॥१॥ धान्यं सप्तदशविधम् । यदाह
"ब्रीहिर्यचो मसूरो गोधूममुद्गमाषतिलचणकाः । अणवः प्रियाकोद्रवमकुष्टकाः शालिराढक्यः ॥ १॥ (१) गणिमा जातिफलपूगफलादि धरिमा तु कुङ्कुमगुडादि । मेयं म्रक्षणलवणादि रत्नवस्त्रादि परिछेद्यम् ॥१॥
11३८४॥