________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३८३॥
वा क्रीडा रमणमनङ्गक्रीडा । यद्वा आहाय्यः काष्ठपुस्तफलमृतिकाचर्मादिभिर्घटितैः प्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुनाति, केशाकर्षणप्रहारदानदन्तनखकदर्थनाऽऽदिप्रकारैश्च मोहनीयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवाऽङ्ग देहावयवो मैथुनापेक्षया योनिमेंहनं वा तद्वयतिरिक्तान्यङ्गानि कुचकक्षोरुवदनादीनि तेषु क्रीडा अनङ्गक्रीडा । इह च श्रावकोऽ त्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति, तदा यापनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदानात्याग्रहानङ्गक्रीडे अर्थतः प्रतिषिद्धे । तत्सेवने न च कश्चिद्गुणः, प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति । एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाचाभङ्ग इत्यतिचारावेतौ । अन्येत्वन्यथाऽतिचारद्वयमपि भावयन्ति- स हि स्वदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादिः परदारविवर्जकोऽपि परदारेषु मैथुनं परिहरति. नालिङ्गनादि, इति कथञ्चिद्बतसापेक्षत्वादतिचारौ । एवं स्वदारसन्तोषिणः पश्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् । अन्ये त्वन्यथाऽतिचारान् विचारयन्ति यथा
१परदारवज्जिणो पञ्च हुन्ति तिणि उ सदारसंतुढे । इत्थीउ तिणि पश्च व भंगविगप्पेहि अइयारा ॥१॥
इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या, तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वा त्तस्याः लोके तु परदारत्वारूढेन भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः
(१) परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रियास्त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥१॥
॥३८३॥