________________
योगशास्त्रम्
तृतीय प्रकाशः
રૂ૮રા
स्वकलत्रात् परदारवर्जकेन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुन न कार्य न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा अन्यविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्बती तु मन्यते-विवाह एवाऽयं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति, कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नाऽवस्थायां सम्भवति, मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थ व्रतादाने सा सम्भवति । नन्वन्यविवाहनवत् स्वापत्यविवाहनेऽपि समान एव दोषः? सत्यम्, यदि स्वकन्याया विवाहो न कार्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपघातः स्यात्, विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात् । परेऽप्याहुःपिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥१॥
यस्तु दाशाईस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावे द्रष्टव्यः। अन्ये त्याहुः-अन्यस्य कलत्राऽन्तरस्य विशिष्टसन्तोषाभावात् स्वयं विवाहनमन्यविवाहनम् । अयं स्वदारसन्तुष्टस्याऽतिचारः। इति तृतीयः ।।३।। मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायत: योषामुखकक्षोरूपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महतीं वेलां निश्चलो मृत एवास्ते, चटक इव चटकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुक्ते; अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दीव पुरूषो भवतीति बुद्धया । इति चतुर्थः ॥४॥ तथा अनङ्गः कामः स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा, हस्तकर्मादीच्छा वा वेदोदयात् । योषितोऽपि योषिनपुंसक पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा; नपुंसकस्यापि नपुंसक पुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एतोऽनङ्गो नान्यः कश्चित् तेन तस्मिन्
૨૮૨