________________
योगशाखम् ॥३८॥
वतीय प्रकाशा
ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः स्मृताः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः सा चासावात्ता च कश्चित्कालं भाटीप्रदानादिना संगृहीता पुंवद्भावे इत्वरात्ता । अथवा इत्वरं स्तोकमप्युच्यते, इत्वरं स्तोकमल्प मात्ता इत्वराचा, विस्पष्टपटुवत् समासः। अथवा इत्वरकालमाचा इत्वराचा, मयूरव्यंसकादित्वात् समासः काल शब्दलोपश्च । तस्यां गम आसेवनम् । इयं चात्र भावना-भाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वान्न भङ्गः अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भगः इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः । इति प्रथमः १। तथा अनात्ता अपरिगृहीता वेश्या स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा तस्यां गतिरासेवनम् । इयं चानाभोगादिना अतिक्रमादिना वा अतिचारः। इमौ चातिचारौ स्वदारसन्तोषिण एव न तु परदारवर्जकस्य; इत्वरात्ताया वेश्यात्वेन अनात्तायाः स्वनाथतयैवा परदारत्वात्, शेषास्त्वतिचारा द्वयोरपि, इदं च सूत्राऽनुपाति । यदाहुः-सदारसंतोसस्स इमे पञ्च अइयारा जाणियन्वा न समायरिअव्वा ।" ___ अन्ये त्वाः-इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारस्तत्र भावना कृतैव, अनातागतिस्तु परदारवर्जिनः । अनात्ता हि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः२। तथाऽन्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहनं विवाहकरणं कन्याफललिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च स्वदारसन्तोषवता (१) स्वदारसन्तोषस्येमे पश्चातिचारा ज्ञातव्याः, न समाचरितव्याः ।
॥३८॥