________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३८०॥
रता। इति तृतीयः३ तथा प्रतिरूपं सदृशं ब्रीहीणां पलञ्जिः, घृतस्य वसा, हिङ्गोःखदिरादिवेष्टः, तैलस्य मूत्र, जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये, इत्यादिप्रतिरूपेण क्रियाव्यवहारः, व्रीह्यादिषु पलज्यादि प्रक्षिप्य तत्तद्विक्रीणीते । यद्वा, अपहृतानां गवादीनां सशृङ्गागामग्निपक्यकालिङ्गीफलस्वेदादिना श्रृगाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोति । इति चतुर्थः ४ तथा मीयतेऽनेनेति मानं कुडवादि, पलादि, हस्तादि, तस्यान्यत्वं हीनाधिकत्वं, हीनमानेन ददाति, अधिकमानेन गृणाति । इति पञ्चमः ५। प्रतिरूपक्रिया मानान्यत्वं च परव्यसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्य प्रसिद्ध, मया तु वणिक्कलैब कृतेति भावनया व्रतरक्षणोद्यतत्वादतिचारावेवेति । अथवा स्तेनानुज्ञादयः पश्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रमव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते । न चैते राजसेवकादीनां न सम्भवन्ति, तथाहि-आधयोः स्पष्ट एव सम्भवः, द्विराज्यलनं तु यदा सामन्तादिः कश्चित् स्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदाऽस्यातिचारो भवति । प्रतिरूपक्रिया मानान्यत्वं च यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति तदा राज्ञोऽप्यतिचारो भवति । एते च पश्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥१३॥
अथ चतुर्थव्रतातिचारानाहइत्वरात्तागमोऽनात्तागतिरन्यविवाहनम् । मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥९४ ।
॥३८०॥