________________
योगशास्त्रम्
॥३७॥
तृतीय प्रकाशा
स्तेनानुज्ञा तदानीतादानं द्विइराज्यलङ्घनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥९२। __ स्तेनाश्चौरास्तेषामनुज्ञा-हरत ययमिति हरणक्रियायां प्रेरणा, अथवा स्तेनोपकरणानि कुशिकाकतरिकाघर्घरिकादीनि तेषामर्पणं वा स्तेनानुज्ञा । अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञाव्रतभङ्ग एव, तथापि किमधुना यूयं निर्व्यापारास्तिष्ठत ?, यदि वो भक्तादि नास्ति तदाऽहं तददामि. भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये, इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वकल्पनया तद्वयापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः। इति प्रथमोऽतिचारः १ । तथा तच्छब्देन स्तेनपरामर्शः स्तेनैरानीतमाहृतं कनकवस्त्रादि तस्यादानं ग्रहणं मूल्येन मुधिकया वा तदानीतादानं, स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्न, गृहर्णश्चौरो भवति ततश्चौर्यकरणाबतभगः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वान्न तद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः। इति द्वितीयः २। तथा द्विषोविरुद्धयो राज्ञोरिति शेषः, राज्य नियमिता भूमिः कटकं वा, तस्य लङ्घनं व्यवस्थाऽतिक्रमः, व्यवस्था च परस्परविरुद्धराजकृतैव, तल्लङ्घनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः, इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः, द्विराज्यलधनस्य यद्यपि स्वस्वामिना अननुज्ञातस्य '१सामिजीवादत्तं तित्थयरेणं तहेव य गुरूहि । इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन अदत्तादानरूपत्वाबतभङ्ग एव, तथापि द्विराज्यलङ्घनं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावदतिचा
(१) स्वामि जीवादत्तं तीर्थकरेण तथैव च गुरुभिः ।
॥३७९॥