________________
योगशास्त्रम्
तृतीय प्रकाशा
॥३७८॥
१सहसाभक्खाणाइ जाणतो जइ करेज्ज तो भंगो । जइ पुण णाभोगाईहिंतो तो होइ अइयारो ॥१॥
इति द्वितीयोऽतिचारः २। तथा गुह्य गृहनीयं न सर्वस्मै यत्कथनीयं राजादिकार्यसंबद्धं तस्यानधिकृतेनैवाकारेजितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणं यथा-एते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं पैशुन्यं यथा-द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३। तथा विश्वस्ता विश्वासमुपगता ये. मित्रकलत्रादयस्तेषां मन्त्री मन्त्रणं तस्य भेदः प्रकाशनं तस्यानुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्रं भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः४ । तथा कूटमसद्भूतं तस्य लेखो लेखनं कूटलेखः, अन्यस्वरूपाक्षरमुद्राकरणम्, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य, न वदामि न वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिना अतिक्रमादिना वाऽतिचार; अथवा असत्यमित्यसत्यभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया व्रतसापेक्षस्यातिचार एवेति पञ्चमोऽतिचारः ५ ॥ ९१ ॥
अथ तृतीयव्रतातिचारानाह(१) सहसाभ्याख्यानादीन् जानन् यदि कुर्यात् ततो भङ्गः । यदि पुनरनाभोगादिभ्यस्ततो भवत्यतिचारः॥१॥
॥३७८॥