________________
तृतीय प्रकाशा
शास्त्रम्
॥३७७॥
यच्चोक्तम्-व्रतेयत्ता विशीर्यत इति तदयुक्तम्, विशुद्धाहिंसासद्भावे हि बन्धादीनामभाव एव । तत् स्थितमेतबन्धादयोऽतिचारा एव । बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया ज्ञेयाः ॥९॥
अथ द्वितीयस्य व्रतस्यातिचारानाहमिथ्योपदेशः सहसाऽभ्योख्यानं गुह्यभाषणम् । विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥९१ ॥
मिथ्योपदेशोऽसदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात्परपीडाकरणे उपदेशे अतिचारो यथा-बाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति । यद्वा यथास्थितोऽर्थस्तथोपदेशः साधीयान् विपरीतस्तु अयथार्थोपदेशो, यथा-परेण सन्देहापनेन पृष्टे न तथोपदेशः। यद्वा विवादे स्वयं परेण वा अन्य तराभिसन्धानोपायोपदेश इति प्रथमोऽतिचारः १ । सहसा अनालोच्याभ्याख्यानमसदोषाध्यारोपणं, यथाचौरस्त्वं पारदारिको वेत्यादि । अन्ये तु सहसाऽभ्याख्यानस्थाने रहस्याभ्याख्यानं पठन्ति, व्याचक्षते च-रह एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं, रहस्याभ्याख्यानं यथा-यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्चा तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्ता, तथाऽयं खरकामो मृदुकाम इति वा परिहसति, तथा स्त्रियमभ्याख्याति भतः पुरः यथा-पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुसः स्त्रिया वा येन रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना न त्वभिनिवेशेन, तथा सति व्रतभङ्ग एव स्यात् । यदाह
॥३७७॥