________________
तृतीय
प्रकाशा
॥३७॥
सति म्रियते, स्वभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत। अनादिरोधोऽपि सार्थकानर्थकभेदो बन्धवत् द्रष्टव्यः, नवरम् सापेक्षो रोगचिकित्साथै स्यात्, अपराधकारिणि च वाचैव वदेद्-अद्य ते न दास्यते भोजनादि । शान्तिनिमित्तं चोपवासादि कारयेत् । किंबहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् । ननु हिंसैव श्रावकेण प्रत्याख्याता ततो बन्धादिकरणेऽपि न दोषो हिंसाविरतेरखण्डितत्वात् । अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किश्च बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्यंत, प्रतिव्रतमतिचारव्रतानामाधिक्यादिति । एवं च न बन्धादीनामतिचारतेतिः । उच्यते-सत्यं, हिंसव प्रत्याख्याता न बन्धादयः केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषाम् । न च बन्धादिकरणेऽपि व्रतभङ्गः किन्त्वतिचार एवं। कथम् ? इह द्विविधं व्रतम्-अन्तवृत्या बहिवृत्त्या च, तत्र मारयामीति विकल्पाभावेन यदा कोपाचावेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवत्तते, न च हिंसा भवति, तदा निर्दयता विरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्या व्रतस्य भङ्ग, हिंसाया अभावाच्च बहिवृत्त्या पालनमिति देशस्य भञ्जनादेशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते तदुक्तम्
न मारयामीति कृतव्रतस्य विनैव मृत्यु क इहातिचारः ।। निगद्यते यः कुपितो वधादीन् करोत्यसो स्यानियमानपेक्षः ॥१॥ मृत्योरभावाभियमोऽस्ति तस्य कोपाइयाहीनतया तु भग्नः । देशस्य भनादनुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥२॥
॥३७६॥