________________
योगशास्त्रम्
॥ ३७५ ॥
EXOOOOOOO
नुवर्त्तते । क्रोधाद्यः छविच्छेदः स द्वितीयोऽतिचारः २ । अधिकस्य वोढुमशक्यस्य भारस्यारोपणं गो-करम -रासम मनुष्यादेः स्कन्धे पृष्ठे शिरसि वा वाहनायाधिरोपणम्; इहापि क्रोधादित्यनुवर्त्तते, तेन क्रोधात्तदुपलक्षिताल्लोभाद्वा यदधिकभारारोपणं स तृतीयोऽतिचारः ॥ ३॥ प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः || ४ || अनादि रोधो भोजनपानादेर्निषेधः क्रोधादेवेति पञ्चमोऽतिचारः ||५|| अत्र चायमावश्यकचूर्ण्याद्युक्तो विधि:-बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽपि सार्थकोऽनर्थको वा, तत्रानर्थकस्तावद् विधातुं न युज्यते, सार्थकः पुनरसौ द्विविधः, सापेक्षो निरपेक्षश्च तत्र सापेक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते निरपेक्षो यत् निश्चलमत्यर्थश्च बध्यते । एवं तावत् चतुष्पदानां बन्धो, द्विपदानामपि दासदासीचौरपाठादिप्रमत्तपुत्रादीनां यदि बन्धस्तदा सविक्रमणा एव बन्धनीया रक्षणीयाश्च यथाऽग्निभयादिषु न विनश्यन्ति ; तथा द्विप दचतुष्पदाः श्रावण त एव संगृहीतव्या ये अबद्धा एवासते इति । छविच्छेदोऽपि तथैव, नवरम् निरपेक्षो हस्तपादकर्णनासिकादि यनिर्दयं छिनत्ति, सापेक्षः पुनर्गण्डं वा अरुर्खा छिन्द्याद्वा दहेद्वेति तथाऽधिकभारोऽपि नारोपयितव्यः पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावकेण मोक्तव्या, अथान्याऽसौ न भवेत्, तदा द्विपदोऽयं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किञ्चिदूनः क्रियते हलकटादिषु पुनरुचितवेलायामसौ मुच्यत इति । प्रहारोऽपि तथैव, नवरम् निरपेक्षः प्रहारो निर्दयताडना, सापेक्षः पुनः श्रावणादित एव भीतपर्षदा भवितव्यं, यदि पुनः कोऽपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेदिति । तथा अन्नपानादिरोधो न कस्यापि कर्त्तव्यस्तीक्ष्णबुभुक्षो होवं
FORESTO CREENS
तृतीय
प्रकाशः
॥३७५