________________
योगशास्त्रम्
॥३७४॥
संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्यारव्यानावरणोदय इति न देशविरतावतिचारसम्भवः । युज्यते चैतत्, अल्पीयस्त्वात्तस्याः, कुन्थुशरीरे व्रणाद्यभाववत् । तथाहि
प्रथमाणुव्रते स्थूलं सङ्कल्पं निरपराधं द्विविधं त्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराधनारूपा अतिचारा भवन्तु ? अतः सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्वादेव हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते - देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपासकदशादिषु प्रतिव्रतमतिचारपञ्चकाभिधानात् । अथ भङ्गा एव ते, न त्वतिचाराः । नैवम्, भङ्गाद्भेदेनातिचारस्यागमे संमतत्वात् । यच्चोक्तम् सर्वेऽप्यतिचाराः संज्वलनोदय एव तत्सत्यम् । केवलम् सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्व देशविरती । यतः सव्वे वि अ अइयारा इत्यादि गाथाया एवं व्यारव्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं च न देशविरतावतिचाराभावः ॥ ८६ ॥
तत्र प्रथमत्रते तानाह
क्रोधाद्वन्धच्छविच्छेदोऽधिकभाराधिरोपणम्। प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्त्तिताः ॥९०॥
अहिंसायां प्रथमाणुत्र अमी पञ्चातिचाराः - बन्धो रज्ज्वादिना गोमहिष्यादीनां नियंत्रणम्ः स्वपुत्रादीनामपि विनयग्राहणार्थं क्रियते, अतः क्रोधादित्युक्तम् ; क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः ? | छविः शरीरं त्वग्वा, तस्याः छेदो द्वैधीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्य
तृतीय
प्रकाशः
॥ ३७४॥