________________
योगशास्त्रम्
॥ ३७३ ॥
त्यक्तनाभस्त्वं तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः || १९|| आरम्भेणामुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि मे भक्तमस्युद्यतोऽधुना ॥ २० ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्त्वेतत्कर्कशतमं शिलातलमितो भव ॥२१॥ अथोचे श्रेणिको हर्षस्थाने किमम्ब ! रोदिषि ? | ईदग् यस्याः सृतः स्त्रीषु त्वमेका पुत्रवत्यसि ।२२। तत्वज्ञोऽयं महासस्वस्त्यक्त्वा तृणमिव श्रियम् । प्रप्रेदे स्वामिनः पादान साक्षादिव परं पदम् ॥ २३ ॥ असौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ॥ २८ ॥ भद्वैवं बोधिता राज्ञा वन्दित्वा तो महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ।। २५ । मृत्वा ततस्तौ सर्वार्थसिद्धस्वर्गे बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषौ ॥ २६ ॥
सत्पात्रदानफलसम्पदमद्वितीयां स प्राप सङ्गमक आयतिबर्द्धमानाम् ।
कार्यो नरैरवितथातिथिसंविभागे, भाग्यार्थिभिर्ननु ततः सततं प्रयत्नः ॥ १२७॥
॥ इति सङ्गमककथानकम् ॥ ८८ ॥
उक्तानि द्वादशव्रतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह
व्रतानि सातिचाराणि सुकृतोय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ।। ८९ ॥ अतिचारो मालिन्यं तद्युक्तानि व्रतानि न सुकृताय भवन्ति, तदर्थमेवैकैकस्मिन् व्रते पञ्च पञ्चातिचाराः परिहरणीयाः । ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह
१सव्वे वि अ अइआरा संजलणाणं तु उदयतो हुंति । मूलच्छिज्जं पुण होइ बारसहं कसायाणं ॥ १ ॥ १ सर्वेऽपि च अतिचाराः संज्वलनानां तु उदयतो भवन्ति । मूलच्छेद्यं पुनः भवति द्वादशानां कपायाणाम् ॥ १ ॥
F
तृतीय
प्रकाशः
३७३।