________________
योग
तृयती
शास्त्रम्
प्रकाशा
॥३७२॥
भणन् शालिभद्रो धन्ययुतो ययौ ॥१॥ गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः। तपःक्षामतया तौ च न केनप्युपलक्षितौ ॥ २॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यऽज्ञासीदुत्सुका न तौ ॥ ३ ॥ क्षणमेकमवस्थाय तत्र तो जग्मतुस्ततः। महर्षी नगरद्वारप्रतोल्या च निरीयतुः॥ ४॥ तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधिसर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः ॥ ५ ।। शालिभद्रं तु सा प्रेक्ष्य सञ्जातप्रखवस्तनीं । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ॥ ६॥ श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः। शालिभद्रोऽवदत्स्वामिन्मातृतः पारणं कथम् ? ॥ ७॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्र ! महामुने । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ॥८॥ कृत्वा पारणकं दध्नोऽऽपृच्छय च स्वामिनं ततः। वैभारादि ययौ शालिभद्रो धन्यसमन्वितः ॥९॥ शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् ॥१०॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः। आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ॥११॥ ततो भद्राऽवदद्धन्यशालिभद्रौ क तौ मुनी?। भिक्षार्थ नागतौ कस्मादमस्मद्वेश्म जगत्पते ! ॥१२॥ सर्वज्ञोऽपि बभाषे तौ त्वद्वेश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥१३॥ प्रायजन्ममाता त्वत्सूनोधन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ॥१४॥ उभावथ महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारपवते गत्वाऽनशनं तौ प्रचक्रतुः ॥१५॥ श्रेणिकेन समं भद्रा वैभारादि ययौ ततः। तथास्थितावपश्यच्च तावश्मघ टिताविव ॥१६॥ तत्कष्टमय पश्यन्ती स्मरन्ती तत्सुखानि च । सारोदीद्रोदयन्तीव वैभारादि प्रतिस्वनैः॥१७॥ आयातोऽपि गृहं वत्स ! मया तु स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ॥१८॥ यद्यपि
३७२॥