________________
योगशास्त्रम्
॥३७१॥
तृतीय प्रकाशा
॥८३॥ य एवं कुरुते फेरुवि भीरुस्तपस्व्यसौ। हीनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम्।।८४॥ सुकरं चेदव्रतं नाथ! क्रियते कि नहि त्वया ? एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः॥८५॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः। अनुमन्त्र्योऽद्य मेऽभूवन् प्रब्रजिष्यामि तद् द्रुतम् ॥८६॥ ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा स्म त्याक्षीः श्रियोऽस्मांश्च मनस्विन् ! नित्यलालिताः ॥८७॥ अनित्यं स्त्रीधनाद्येतत्प्रोज्झ्य नित्यपदेच्छया अवश्य प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥८८॥ त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यमन्यो महामनाः ॥८६॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृगिरा ॥९०॥ दत्तदानः सदारोऽसावारुह्य शिबिकां ततः। भवभीतो महावीरचरणौ शरणं ययौ ॥९॥ सदारः सोऽग्रहीद दीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा शालिभद्रोऽपि जितमन्यः प्रतत्वरे ॥९२॥ सोऽन्वीयमा नस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद व्रतम् ॥९३॥ ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः। विहरनन्यतोऽगच्छत् सयूथ इव हस्तिराट् ॥९४॥ धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ । महत्तपश्च तेपाते खड्गधारासहोदरम् ॥९५॥ पक्षाद् मासाद् द्विमास्यास्त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारण मुनी ॥९६॥ तपसा समजायेतां निर्मा सरुधिराङ्गको । चर्मभस्त्रोपमौ शालिभद्रधन्यौ महामुनी ॥९॥ अन्येद्यः श्रीमहावीरस्वामिना सह तौ मुनी। आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥९८॥ ततः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धाऽतिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ॥९९।। मासपारणकै शालिभद्रधन्यावुभावपि । काले विहर्नु भिक्षार्थ भगवन्तं प्रणेमतुः ॥१०॥ मातृपाश्र्वात्पारणं तेऽद्येत्युक्तः स्वमिना ततः। इच्छामीति
॥३७१॥