________________
योगशास्त्रम्
तृतीय प्रकाश
॥३७॥
यावदिच्छति । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ॥६६॥ आगाच्चतुर्ज्ञानधरः सुरासुरनमस्कृतः । मूर्ती धर्म इवोद्याने धर्मघोषाभिधो मुनिः ॥ ६७ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ। आचार्यपादान् वन्दित्वा साधूंश्चोपाविशत्पुरः॥६८॥ स सरिर्देशनां कुर्वन् नत्वा तेनेत्यपृच्छयत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥६९॥ भगवानप्युवाचेदं दीक्षां गृहणन्ति ये जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥७०॥ यद्येवं नाथ ! तद्गत्वा निजामापृच्छय मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥७१॥ न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो गृहं गत्वा भद्रां नत्वेत्यभाषत ॥७२॥ धर्मः श्रीधर्मघोषस्य सूरेरद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥७३॥ अकार्षीः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥७४॥ सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥७५॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ प्रतोधमः । किन्त्वत्र लोहचणकाचर्वणीया निरन्तरम् ॥७६॥ सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्च लालितः । स्पन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥७७॥ शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे ॥७८॥ त्यज भोगान् क्रमान्मर्त्यमाल्यगन्धान सहस्व च । इत्यभ्यासाव्रतं वत्स! गृहणीया इत्युवाच सा ॥७९॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भामेकां तूलिकां च मुश्चति स्म दिने दिने।।८०॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ॥८१॥ शालिभद्रस्वसा साश्रु स्नपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् ॥८२॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने। भार्यां च तूलिकां चाहं हेतुना तेन रोदिमि
॥३७॥