________________
योगशास्त्रम् ॥३६९॥
शालिभद्रं ततोऽवदत् । इहायातः श्रेणिकोऽस्ति तं द्रष्टुं क्षणमेहि तत् ॥ ४९ ॥ अम्ब ! त्वमेव यद्वेत्सि तमर्थ कारय स्वयम् । किं मया तत्र कर्त्तव्यं स भद्रामित्यभाषत् ॥५०॥ ततो भद्राऽप्युवाचैनं क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ ५१ ॥ तच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्य यन्ममाप्यपरः प्रभुः ॥५२॥ भोगिभोगैरिवैभिर्मे भोगैरलमतः परम् । दीक्षां मक्षु ग्रहीष्यामि श्रीवीरचरणान्तिके ॥५३॥ एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद्विनयान्वितः ॥५४॥ सस्वजे श्रेणिनाथ स्वाङ्के सुत इवासितः । स्नेहाच्छिरसि चाघ्रातः क्षणाच्चाणि सोऽमुचत् ॥ ५४ ॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मानुस्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥ ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्य नेपथ्यवस्त्राङ्गरागादीन् प्रतिवासरम् ||५७॥ ततो राज्ञा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः || ५८ || भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्वं श्रीमतां किं न सिध्यति ? ॥ ५९ ॥ सस्नौ स्नानीयतैलाम्बुचूर्णैस्तूर्ण ततो नृपः । अङ्गुलीयं तदङ्गुल्याः क्रीडावाप्यां पपात च ॥ ६०॥ यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशदासीं वाप्य म्भोऽन्यत्र नाय्यताम् ॥ ६१ ॥ तथा कृते तया चित्रदिव्याभरणमध्यगम् । अङ्गारामं स्वाङ्गुलीयं दृष्ट्वा राजा विसिष्मिये ॥ ६२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् ! । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥६३॥ सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शति भूपतिः ॥६४॥ बुभुजे सपरिवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्राद्यैरचितच गृहं ययौ ॥ ६५ ॥ शालिभद्रोऽपि संसारविमोक्षं
तृतीय प्रकाशः
॥ ३६९ ॥