________________
योगशाखम्
तृतीय प्रकाशा
३६८॥
वणिग्भिः कैश्चिदन्येाहीत्वा रत्नकम्बलान । शिश्रिये श्रेणिकस्तांश्च महात्वेन नाग्रहीत् ॥३३॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्पण तान् भद्राऽप्यग्रहीद्रत्नकम्बलान् ॥३४॥ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः इत्यूचे चेल्लणादेव्या तदा च श्रेणिको नृपः ॥३५॥ राज्ञाऽपि मूल्यपूर्व ते कम्बलं वणिजोऽर्थिताः। भद्रा जग्राह तान् सर्वान् कम्बलानित्यचीकथन् ॥३६॥ श्रणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः । भद्रापार्श्वे मूल्यदानात्कम्बलादानहेतवे ॥ ३७॥ याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रो
छनीकृतवत्यहम् ॥ ३८॥ कार्य निष्पद्यते किश्चिजीर्णश्चेद्रत्नकम्बलैः । तद्गत्वाऽऽपृछय राजानमागच्छामून् गृहाण च ॥ ३९ ॥ आख्यद्गत्वा स तद्राज्ञे राझ्यूचे चेल्लणाऽप्यदः । पश्यास्माकं वणिजांच परीरिहेम्नोरिवान्तरम् ।४०॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥४१॥ बहिर्न हि महीनाथ ! जातु याति मदात्मजः। प्रसादः क्रियतां देव ! मद्गृहागमनेन मे ॥४२॥ कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत। तं च क्षणं प्रतीक्ष्याथ साऽग्रे भूत्वा गृहं ययौ ॥४३॥ विचित्रवस्त्रमाणिक्यचित्रकत्वङ्मयीं ततः । आराजहर्म्य स्वगृहाददृशोभां व्यधत्त सा ॥ ४४ ॥ तयाऽऽहूस्ततो राजा कृतां सद्यः सुरैरिव । विभावयन् इदृशोभा शालिभद्रगृहं ययौ ॥ ४५ ॥ स्वर्णस्तम्भोपरि प्रेकदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्वारभूतलम् ।४६। दिव्यवस्वकृतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥ ४७ ॥ तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुझं तु सिंहासन उपाविशत् ॥ ४८ ॥ सप्तम्या भुवि भद्रेत्य
(१) पित्तलसुवर्णयोः।
॥३६८॥