________________
योगशास्त्रम्
॥३६७॥
OOOOOOXF
ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥ १५ ॥ ययौ च स मुनिर्गेहान्मध्याद् धन्याऽपि निर्ययौ । मन्ये भुक्तमनेनेति ददौसा पायसं पुनः ॥ १६ ॥ तत्पायसमतृप्तः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥ १७॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे । गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत् ॥ १८ ॥ शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यच्च सा ततः । भर्तुः शशंस सोऽप्यस्याः सूनुः स्यादित्यचीकथत् ॥१९॥ चेद्दाधर्मकर्माणि करोमीति बभार सा । दोहदं तं तु गोभद्रः पूरयामास भद्रधीः ॥२०॥ पूर्णे काले ततो भद्रा द्युतिद्योतितदिग्मुखम् | असूत तनयं रत्नं विदुरं गिरिभूरिव ॥ २१॥ दृष्टस्वप्नानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः : पितरौ शालिभद्र इत्यभिधां शुभाम् ॥ २२ ॥ धात्रीभिः पञ्चभिः पाल्यमानः स ववृधे क्रमात् । किश्चिद् नाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥ २३ ॥ संप्राप्तयौवनश्वासौ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ||२४|| तत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥२५॥ अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ||२७|| विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्रीं पितरौ स्वयम् ॥ २८ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वा देवलोकं जगाम च ॥ २९ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तन्पुण्यावर्जितः सोऽभूत् पुत्रवात्सल्यतत्परः ||३०|| दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥३१॥ यद्यन्मन्त्र्योचितं कार्यं भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुङ्गक्त केवलम् ||३२||
EXEVEDEO REMO
तृतीय
प्रकाशः
॥३६७